Maa Kripa Jyotish
WOWSlider generated by WOWSlider.com
नवग्रह ध्यानश्लोकम्
श्लोकं

सरस्वती श्लोकं

सरस्वती नमस्तुभ्यं वरदे कामरूपिणी ।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥
या कुन्देन्दु तुषार हार धवला, या शुभ्र वस्त्रावृता ।
या वीणा वरदण्ड मण्डित करा, या श्वेत पद्मासना ।।
या ब्रह्माच्युत शङ्कर प्रभृतिभिर्-देवैः सदा पूजिता ।।
सा माम् पातु सरस्वती भगवती निश्शेषजाड्यापहा ।

लक्ष्मी श्लोकं

लक्ष्मीं क्षीरसमुद्र राज तनयां श्रीरङ्ग धामेश्वरीम् ।
दासीभूत समस्त देव वनितां लोकैक दीपाङ्कुराम् ।
श्रीमन्मन्ध कटाक्ष लब्ध विभव ब्रह्मेन्द्र गङ्गाधराम् ।
त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥

अपराध क्षमापण स्तोत्रं

अपराध सहस्राणि, क्रियन्तेஉहर्निशं मया ।
दासोஉय मिति मां मत्वा, क्षमस्व परमेश्वर ॥
करचरण कृतं वा कर्म वाक्कायजं वा श्रवण नयनजं वा मानसं वापराधम् ।
विहित मविहितं वा सर्वमेतत् क्षमस्व
शिव शिव करुणाब्धे श्री महादेव शम्भो ॥
कायेन वाचा मनसेन्द्रियैर्वाबुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि ॥

शान्ति मन्त्रं

असतोमा सद्गमया ।
तमसोमा ज्योतिर्गमया ।
मृत्योर्मा अमृतङ्गमया ।
ॐ शान्तिः शान्तिः शान्तिः
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःख भाग्भवेत् ॥
ॐ स॒ह ना॑ववतु । स॒ नौ॑ भुनक्तु ।
स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॓ ॥
ॐ शान्तिः शान्तिः शान्तिः

Find Us On

Valid XHTML 1.0 Transitional